SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आचा. रास प्रदी० PRASHARE ॥ श्रीलोकविजयाध्ययने षष्ठोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं पष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके ममत्वं न कर्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-- से तं संबुज्झमाणे आयाणीयं समुट्ठाए तम्हा पावं कम्मं णेव कुज्जा ण कारवे (सू. ९७) ___ 'से तंति यस्यानगारस्यैतत् पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्ध्यमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन् आदाताव्यमादानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शन-चारित्ररूपं तद् उत्थाय-गृहीत्वा किं कुर्यादित्याह--'तम्हा पावं कम्मति यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपस्तस्मात्तमा दाय पापहेतुत्वात् कर्म क्रियां स्वतो न कुर्यात् मनसापि न समनुजानीयात् इत्यवधारणफलं, अपरेणाऽपि न कारयेदिति, आह-'ण कारवेत्ति अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति-अष्टादशापि पापस्थानानि स्वतो न कुर्यात्, नाऽप्यपरेण कारयेत्, अपरं कुर्वन्तं न समनुजानीयाधोगत्रिकेणाऽपि भावार्थः ॥९७॥ स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विन्नेत्याह१. त्तदा०-पा० । २०येदेतदुक्तम्-पा० । ॥१८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy