________________
आचा० प्रदी.
११२।५
भेत्ता शुलादिभिः, लुपया। ग्रधिकादिना, मिथित ग्रामवादिना, आदापिता प्राणव्यपरोपणात् , नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, 'अकडं करिस्सामित्ति अकृतं-यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धोऽतो य एवम्भूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यवादकार्यमिति, आह च-'जस्स वि य णं'ति यस्याप्यसौ एवम्भूतां चिकित्सा करोति, न केवलं स्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः।
अतो अलं-पर्याप्तं बालस्य-अज्ञस्य सङ्गेन कर्मबन्ध हेतुना करिति यो वैतत्कारयति बालोऽज्ञस्तस्याप्यलम् ।
एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्वस्य न भवतीत्याह-'ण एवं अणगारस्स जायति'त्ति एवम्भूतं प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा अनगारस्य-साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सा व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बाला:-आवेज्ञाततत्खास्तेषां वचनमबधीरणीयमेवेति भावार्थः। इति:परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥९६||
॥ श्रीलोकविजयाध्ययने पञ्चमोद्देशकप्रदीपिका समाप्ता।
॥१७९॥