________________
आचा० प्रदी०
१२५
किए
मा तेष्वात्मानं तिरश्चिनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राऽप्रमादयता भाव्यं, प्रमादवांश्चहैव शान्ति ना लभते ।
यतः 'कासकसे' इति, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगामिलापवान् स एवम्भूतोऽपि पुरुषः सर्वदा किंकर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलापक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, बहुमायी-कासंकपो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यं, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यं । 'कडेण मूढे' करणं कृतं तेन मूढः-किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते, स एवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गो जायते ।।
आह च'पुणो तं करेति' मायावी परवश्चनबुद्ध्या पुनरपि तल्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्धते ।
किं पुनः कारणं प्राणी तत्करोति येनात्मनो वैरं वर्धते ? इत्याह--'जमिणं ति यदिति यस्मादस्यैव विशरारो शरीरस्य परिबृंहणार्थं प्राणघातादिकाः क्रियाः करोति, ते च तेन हताः प्राणिनः पुनः शतशो घ्नन्ति, अतो मयेदं कथ्यते-कासंकषः पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयति । ___अपरं च अमरायते--द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरत्यमरायते, कोऽमौ ? महाश्रद्धी-महती चासौ श्रद्धा च महाश्रद्धा सा विद्यते यस्य भोगेषु तदुपायेषु वा, भोगार्थिनोऽथे प्रसक्ता अजरामरवत् क्रियासु प्रवर्त्तन्ते, यश्चामरायमाणः काम-भोगाभिलाषुकः सः किम्भूतो भवतीत्याह--'अट्टमेतं पेहाए' अतिः-शारीर-मानसी पीडा तत्र भव आस्तिमार्तमम
ISSSSSSSC
॥१७७॥