________________
१।२५
आचा प्रदी०
___ अपि च 'संधि विदित्ता' इह मत्येषु यो ज्ञानादिको भावसन्धिः। स च मत्येष्वेव सम्पूर्णों भवतीति मर्त्य ग्रहणमतस्तं विदित्वा यो विषय-कषायादीन् परित्यजति स एव वीर इति दर्शयति
'एस वीर'त्ति एषोऽनन्तरोतः आयतचक्षुर्यथावस्थितलोकस्वभावविभागदर्शी' भावसन्धेर्वेत्ता परित्यक्तविषयतर्षों वीरः कर्मविदारणात् प्रशंसितः-स्तुतः विदिततत्वैः । स एवम्भूतः किमपरं करोतीति चेदाह-'जे बद्धे पडिमोयए' यो बद्धान् द्रव्य-भावबन्धनेन सतो विमुक्तोऽपरानपि मोचयति ।
एतदेव द्रव्य-भावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे-'जहा अंतो'त्ति यथाऽन्तर्भावनिवन्धनमष्टप्रकारं कर्म निगडनं मोचयति एवं पुत्र-कलत्रादि बाह्यमपि, यथा वा बाय बन्धुमोचनं मोचयत्येवं मोक्षविघ्नकारणमान्तरमपि, यदिवा यथा स्वकायस्यान्तः-मध्ये अमेध्य कलल-पिशितामक्-पूत्यादिपूर्णत्वेनासारत्वमेवं बहिरपि असारता द्रष्टव्या, अमेध्यपूर्णघटवत , यथा वा बहिरसारता तथाऽन्तरपीति ।
किश्च 'अंतो अंतो पूति'त्ति देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् देहान्तराणि-देहस्यावस्थाविशेषान , इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति-यथावस्थितानि जानाति, 'पुढो वित्ति पृथगपिप्रत्येकमपि, अपिशब्दात् कुष्ठाद्यवस्थायां योगपद्येनापि स्रवन्ति नवभिः श्रोतोभिः कर्णाक्षिमलश्लेष्म-लालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितवणमुख (तिशोणितरसिकादीनि वा, यद्येवं ततः किं ? 'पंडिते पडिलेहाए' एतान्येवम्भूतानि
१. लोकविभागस्वभावदर्शी बृ० ।
SHESARIAAAAAAA
॥१७५।