________________
११२।४
आचा० प्रदी०
भागं जाणति, गढिए अणुपरियट्टमाणे ।
संधि विदित्ता इह मच्चिएहिं, एस वीरे पसंसिते जे बद्धे पडिमोयए । जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो।
अंतो अंतो पूतिदेहंतराणि पासति पुढो वि सवंताई। पंडिते पडिलेहाए (सू. ९४) 'आयतचक्खू' आयतं-दीघमैहिकामुष्मिकापायदर्शि चक्षुः-ज्ञानं यस्य, कः पुनरित्येवम्भूतो भवति ? यः कामान् त्यक्त्वा प्रशमसुखमनुभवति, किञ्च 'लोगविपस्सी'ति लोकं-विषयानुषगावाप्त दुःखं त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, 'लोगस्स अहे भागं जाणति' लोकस्य धर्माधर्मास्तिकायव्याप्ताकाशखण्डस्याधोभागं जानाति:स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्ते जीवाः यादृक् तत्र सुखदुःखविपाको भवति तं जानात्येवमूर्ध्व-तिर्यग्भागयोरपि वाच्यं, 'गढिए अणुपरियट्टमाणे' अयं हि लोको गृद्धः-अध्युपपन्नः कामानुषङ्गे तत्रैवानुपरिवर्तमानो | भूयोभूयस्तदेवाचरन् तज्जनितेन कर्मणा संसारचक्रे विपरिवर्त्तमानः-पर्यटनायतचक्षुषो गोचरी भवन् कामाभिलापनिवर्तनाय प्रभवति ।
॥१७४॥