________________
११२१५
आचा प्रदी.
A5%-51555555
कामा दुरतिस्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डुति परितप्पति (सू. ९३)
'कामा दुरतिकम'त्ति कामा द्विविधाः-इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्य-रत्युद्भवाः, मदन- | कामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेदोऽतो दुःखेनातिक्रमो लङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति-न तत्र प्रमादवता भाव्यं, न केवलमत्र, जीवितेऽ ऽप्यप्रमादवता भाव्यं, आह च-'जीवियं'ति जीवितम्-आयुष्कं तत् क्षीणं सत् दुष्प्रतिबृंहणीयं-नैव वृद्धिं नीयते ।
येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागुक्तं तमभिप्रायमाविष्कुर्वनाह-'कामकामी'ति कामान् कामयितुम्-अभि. लषितुं शीलमस्येति कामकामी, खलु:-वाक्यालङ्कारे, अयं-प्रत्यक्षः पुरुषो-जन्तुः, यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् दुःखविशेषाननुभवतीति दर्शयति-'से सोयति'ति स इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च शोचयति-शोकमनुभवति, 'जूरति'ति हृदयेन खिद्यते, 'तिप्पति'ति तेपते-क्षरति मर्यादातो भ्रश्यति निर्मर्यादो भवति, 'पिट्टति' शारीरमानसैदुःखैः पीडयते, 'परितप्पति' परिः समन्ताद बहिरन्तश्च तप्यते परितप्यते ॥९॥ कः पुनरेवं न शोचा इत्याह
आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उड्ढे भागं जाणति, तिरियं
BHARASHIERRRRRRRRRRRRIAEX
॥१७३॥