SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श२।५ BREA आचा० यदिह परिगृहीतं कर्मबन्धाय भवेत् स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थ प्रभवति स परिग्रह एव न भवति, आह चप्रदी. अण्णहा णं पासए परिहरेज्जा। एस मग्गे आरिएहिं पवेदिते, जहेत्थ कुसले णोवलिंपिज्जासि त्ति बेमि (सू. ९२) 'अण्णहा णं पासए', 'ण' वाक्यालङ्कारे, अन्यथा-अन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत, यथाहि अवि18| दितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशय:--आचार्यसत्कमिदमुपकरण न ममेति, राग-द्वेषमूलत्वात्परिग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनात् । 'एस मग्गे ति, धर्मोपकरणं न परिग्रहाय इत्यनन्तरोक्तो मार्गः, आराद्याताः सर्वहेयधर्मेभ्य इत्याः -तीर्थकृतस्तैः प्रवेदित:-कथितः, अस्मिश्चार्यप्रवेदिते मार्गे प्रयत्नवता भाव्यमिति, आह-'जहेत्थ कुसले'त्ति लब्ध्वा कर्मभूमि मोक्षपादपबीजभूतां च बोधि सर्वसंवरचारित्रश्च प्राप्य तथा विधेयं यथा कुशलो-विदितवेद्योऽस्मिन् आर्यप्रवेदिते मार्गे आत्मानं | पापेन कर्मणा नोपलिम्पयेत, इतिशब्दोऽधिकारसमाप्त्यर्थः, ब्रवीमीति येन मया भगवत्पादारविन्दमुपासताऽश्रावि ॥१२॥ परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च निदानोच्छेदं विना न भवति, निदानश्च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदो न सुकरः, यत आह-- ॐAIRS SEASE ॥१७२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy