________________
११२१५
बाचा प्रदी.
HASIRSAAPSARASA
'लद्धे आहारे'त्ति लब्ध प्राप्ते सति आहारे वस्त्रौपधादिके च, अनगारो-भिक्षुर्मात्रां जानीयात्-यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथाभूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यते इत्यत आह -'से जहेयं भगवता पवेदितं' तद्यथेदमुद्देशकादारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणयुक्तेनार्धमागधभाषया सर्वस्वभाषानुगतया सदेव-मनुजायां पर्षदि केवलज्ञानचक्षुषा अवलोक्य प्रवेदितं-प्रतिपादितं सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे ।।
किं चान्यत् --'लाभो त्ति ण मज्जेजा' लाभो--चस्वाहारादेर्मम संवृत्तः इत्यतोऽहं लब्धिमान् इत्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतमनस्को भूयादित्याह च-'अलाभो त्ति ण सोएज्जा' अलाभे सति शोकं न कुर्यात्, मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयम्, उक्तश्च-- __ "लभ्यते लभ्यते साधु साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥१॥"
[ तदेवं पिण्ड-पात्र-वत्राणामेपणा: प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह-'बहुं पिलधुं ण णिहे' बदपि लब्ध्वा 'ण णिहे'त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, न केवलमाहारसन्निधिं न कुर्यादपरमपि वस्त्र-पात्रादिकं संयमोपकरणातिरिक्तं न विभृयादिति, आह-'परिग्गहाओ अप्पणं अवसकेजा' परिगृह्यते इति परिग्रहो धर्मोपकरणातिरिक्तमपकरणं तस्मादात्मानमपष्वष्केत्, संयमोपकरणेऽपि मूझै न कुर्यात् ।।११॥
AREATERIARRE
|॥१७॥