________________
आचा०
प्रदी०
me. १५
तद्यथा-क्रोधोदयात् स्कन्दकाचार्येण स्वशिष्ययन्त्रपीडनव्यतिकरमवलोक्य सबलवाहन राजधानीसमन्वित पुरोहितोपरि विनाप्रतिज्ञाकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि-यथा कथमहं शिशून् स्वभ्रातृनुत्पन्ननिरावरणज्ञानांश्छद्मस्थः सन् द्रक्ष्यामीति, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानप्रतिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्था साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञा कुर्वते, अप्रतिज्ञोऽनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, 'अयंसन्धीत्यारभ्य काले अणुट्टाइ 'ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैपण निर्यूढा, अप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं न क्वचित्केनचित् प्रतिज्ञा विधेया ॥ ८९ ॥
प्रतिपादिताश्चागमे नानाविधा अभिग्रह विशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आहgoat far fort |
वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा (सू० ९०)
'दुहतो छत्ता णियाइ'त्ति, द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शन - चारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा राग-द्वेषौ प्रतिज्ञा गुणवती, व्यत्यये व्यत्ययः ।
'सएवम्भूतो भिक्षुः किं कुर्यादित्याह - 'वत्थं पडिग्गहुं यावत् एतेसु वेव जाणेज्जा' एतेषु गृहस्थेषु पुत्राद्यर्थं समारम्भप्रवृत्तेषु संनिधिसञ्चयकरणोद्यनेषु जानीयात् - शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवंरूपः-शुद्धं गृह्णीयात्, अशुद्धं
१।२।५
॥१६९॥