________________
AE%
आचा० प्रदी०
१।२।५
%
%
पूरकश्च ६ पडेते उद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः, शेषास्तु विशुद्ध कोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्याः, सर्वमाममपरिशुद्ध पूति वा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याय निरामगन्धो निर्गतावामगन्धौ यस्मात् स तथा परिव्रजेत् संयमानुष्ठान सम्यगनुपालयेत् ।। ८८॥ ___ आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाऽप्यल्पसत्वानां विशुद्ध कोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राई प्रतिषिषेधिषुराह
अदिस्समाणे कय-विककएसु । से ण किणे, ण किणावए, किणतं न समणुजाणए ।
से भिक्खु कालण्णे बालण्णे मालण्णे खेयन्ने खणयण्णे विणयण्णे समयण्णे भावण्णे परिग्गहं अममायमाणे कालेअट्ठाई अपडिण्णे (सू. ८९)
'अदिस्समाणे'त्ति--क्रयश्च विक्रयश्च क्रय-विक्रयौ तयोरदृश्यमानः, किदृक्षश्च तयोरदृश्यमानो यतस्तयोनिमित्तभूतद्रव्यभावादकिश्चनः, 'से ण किणे' इत्यादि, स-मुमुक्षुरकिञ्चनो धर्मोपकःणमपि न क्रीणीयात् स्वतो, नाप्यपरेण क्रापयेत् , क्रीणन्तमपि न समनुजानीयात् ।
AAAAAAAAAAPE
%
%
॥१६७॥