________________
१२।५
आचा. प्रदी०
XX<XIOSIOGIAGE
से णाइए, णाइआवए, न समणुजाणए।
सव्वामगंधं परिण्णाय णिरामगंधे परिवए (सू. ८८) 'समुहिए'त्ति सम्यक् संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरतः, न विद्यतेऽगारं गृहमस्येत्यनगारः पुत्र-दुहित-स्नुषा-ज्ञाति-धान्यादिरहितः, आराद्यातः सर्वहेयधर्मेभ्यः इत्यार्य:-चारित्राईः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः श्रुतविशेषितमतिः, आर्य-न्यायोपपन्नं पश्यतीत्यार्यदर्शी पृथक्प्रहेणक-इमामाशादिसंकल्परहितः, 'अयं संधीति' सन्धान-सन्धिः, अयं सन्धिर्यस्य साधोरसावयं सन्धि:-यथाकालमनुष्ठान विधायी, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोग-स्वाध्याय-भिक्षाचर्या-प्रतिक्रमणादिकाः असंपन्ना अन्योऽन्याबाधया आत्मीयकर्तव्यकाले करोतीति हेतौ यस्माद्य- | थाकालमनुष्ठायी तस्मादसावेव परमार्थ पश्यतीत्याह-'अदक्खु'त्ति, यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थ- | मद्राक्षीनापर इति ।
परमार्थदर्शिना च सावधपरिहारः कर्तव्य इत्यत आह-'से जाइए'त्ति स भिक्षुस्तदकल्प्यं नाददीत-न गृहणीयात् , नाप्यपरमादापयेत् , नाप्यपरमनेषणीयमाददानं समनुजानीयात् । _ 'सव्वामगंधं परिण्णाय'त्ति-आमं च गन्धश्च आमगन्धं, सर्व च तदामगन्धच, सर्वशब्दः प्रकारकात्स्न्ये ऽत्र गृहयते न द्रव्यकात्स्न्ये, ततश्चायमर्थः-गन्धग्रहणेनाऽऽत्मकर्म १ औदेशिकत्रिकं २ प्रतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यव- ||
CLASARALASALSACARALACCASS
X
॥१६६॥