________________
श२५
आचा. प्रदी०
-% AAAAAAA
तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितभ्यः स्नुषा:-वश्वस्ताभ्यो ज्ञातयः-पूर्वापरसम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्यादेश:प्राघूर्णकस्तदर्थ कर्मसमारम्भाः क्रियन्ते तथा 'पुढो पहेणाए'त्ति पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्य 'सामासाए' श्यामारजनी तस्यामशनं श्यामाशः तदर्थ, 'पायरासाए'त्ति प्रातरशनं प्रातराशस्तस्मै कर्मसमारम्भाः क्रियन्त इति सामान्योक्तावषि विशेषार्थमाह-'संणिहि' इति सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचयोऽविनाशिद्रव्याणामभयासितामृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च संनिचयश्च' सन्निधिसंनिचयं अथवा सन्निः संनिचयः सन्निधिसंनिचयः, स च परिग्रहसंज्ञोदयादाजीविकाभयाद्वा धन-धान्य-हिरण्यादीनां क्रियते, स च किमर्थमित्याह-'इहे'ति मनुष्यलोके, एकेषां-इहलोकभूतपरमार्थबुद्धीनां, मानवानां-मनुष्याणां, भोजनायउपभोगार्थम् ॥ ८७॥
तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थ कर्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाश्चिमानवानां भोजनार्थ सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यम् ?
समुट्टिते अणगारे आरिए आरियपण्णे आरियदंसी अयं संधीति अदक्खु ।
१ सञ्चयश्च-पा० । २ ०सश्चयं -पा० ।
॥१६५॥