________________
११२१५
आचा प्रदी०
SHRSHASTRASHISHRA
करीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति, इहमेगेसिं माणवाणं भोयणाए (सू. ८७) 'जमिणं'ति-यैरविदितवेद्यैरिदमिति सुखदुःखप्राप्तिपरिहारस्वमुद्दिश्य, विरूपरूपैः शस्त्रैः-प्राण्युपघातकारिभिर्द्रव्यभावभेदभिन्नै: लोकाय-शरीर-पुत्र-दुहित-स्नुषा-ज्ञात्याद्यर्थ, कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिका-पारितापनिका-प्राणातिपातरूपाणां कृषिवाणिज्यरूपाणां वा समारम्भाः क्रियन्ते, मध्यग्रहणात् संरम्भारम्भयोरपि ग्रहः।
तत्र इशानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसंकल्पावेशः संरम्भः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादि| लक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः ।
कः पुनरसौ लोको ? यदर्थ संरम्भसमारम्भारम्भाः क्रियन्त इत्याह-'तं जहा अप्पणो से पुत्ताणं 'ति-तद्यथेत्युपप्रदर्शनार्थः, तेनानुक्तमपि मित्रादिकं द्रष्टव्यं, 'से'-तस्यारम्भरिप्सोय आत्मा-शरीरं तस्मै कमसमारंभाः पाकादयः क्रियन्ते ।
ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितं, न च शरीरं कोको भवति ?
नैतदस्ति, यतः परमार्थदृशां ज्ञान-दर्शन-चारित्रात्मकमात्मतत्वं विहायान्यत्सर्व शरीराद्यपि परकीयमेव, तथाहि-बाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराण्यतः शरीरात्माऽपि लोकशब्दाभिधेयः ।
॥१६
४॥