________________
आचा०
प्रदी०
॥ श्रीलोकविजयाध्ययने पञ्चमोद्देशकः ॥
•
साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः - इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्तव्यं तदत्र प्रतिपाद्यते - इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण साधुनोत्क्षिप्तमहाव्रतभारेण निरवद्यानुष्ठानविधायिना संयमयात्रार्थं देवप्रतिपालनार्थं लोकनिश्रया विहर्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि । तदभावे धर्मश्व, उक्तं हि
"धर्म चरतः साधोर्लोके निश्रापदानि पञ्चापि । राजा गृहपतिरपरः षट्काया गणशरीरे च ॥ १ ॥ " [ ]
वस्त्र' - पात्राशन- शयनादीनि तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयान् स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्र - कलत्राद्यर्थमारम्भप्रवृत्तः, तत्र साधुना संयम देहार्थे प्रवृत्ति रन्वेषणीयेति दर्शयति
hi faad सत्थेहिं लोगस्स कम्मसमारंभा कज्जंति । तं जहा - अप्पणी से पुणं धूताणं सुहाणं णातीणं धाईणं रातीणं दासाणं दासीणं कम्मकराणं कम्म -
१ विहर्तव्यमित्युक्तं वृ० । २ साधनानि च वस्त्र०- बृ० । ३ वृत्ति० - ० ।
१/२/५
॥ १६३॥