________________
आचा प्रदी०
१२।४
एतं मोणं समणुवासेज्जासि (सू. ८६) तिबेमि ।।
लोगविजयस्स चउत्थो उद्देसओ समत्तो ।। 'एतं पास मुणी' एतत्-प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशाऽवस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदुच्यते, एतत् मुने! पश्य सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहि । यद्येवं ततः किं कुर्यादित्याह-'णातिवातेज कंचणं'ति यतो भोगाभिलषणं महद्भयमतस्तदर्थ नातिपातयेत्-न व्यथेत, कञ्चन-कमपि जीवम् , अशेषव्रतोपलक्षणञ्चेतत् ।
भोगनिरोहः प्राणातिपातादिवतारुढश्च कं गुणमवाप्नोतीत्याह-'एस वारे पसंसिते' एष इति भोगाशाच्छन्दविवेचकोऽप्रमादी पश्चमहावतभारारोहणानामितस्कन्धो वीरः कर्मविदारणात् प्रशंसित:-स्तुतो देवराजादिभिः ।
क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह-'जे न णिबिज्जतीति यो न निर्विद्यते-न जुगुप्सते, कस्मै ? आदानाय आदीयते परमानन्दसुखं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते ।। ___ क्वचिदलाभादौ न खेदमुपयातीत्याह च- ण मे देति ण कुप्पेज्जा' ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीति कृत्वा न कुप्येत्-न क्रोधवशगो भूयाद्, भावनीय च-ममैवेषा कर्मपरिणतिरित्यलाभोदयोऽयम् , अनेन चालाभेन कर्मक्षयायोद्यतस्य मे कर्मक्षपणसमर्थ तपो भावीति न किञ्चित्स्यते,' अथापि किश्चित्स्तोकं प्रान्तं वा लभेत'
१ दूयते-पा० । २ लभते-पा०।
॥१६१॥