________________
११२।४
आचा० प्रदी०
से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खाए। सततं मूढे धम्मं णाभिजाणति ।
उदाहु वीरे-अप्पमादो महामोहे, अलं कुसलस्स पमादेणं, संतिमरणं सपेहाए, भेउरधम्म सपेहाए । णालं पास । अलं ते एतेहिं (सू. ८५) 'आसं च छंदं च'त्ति आशां-भोगाकाङ्क्षां छन्द-परानुवृत्त्या भोगाभिप्राय, तो आशाच्छन्दौ 'विगिंच' त्ति पृथक्कुरुत्यज 'धीरे धी:-बुद्धिस्तया राजते इति धीरः, भोगाशाच्छन्दापरित्यागे च दुःखमेव केवलं न तत्प्राप्तिरित्याह च-'तुम चेव'त्ति विनेय उपदेशगोचरापन्न आत्मा वा कथ्यते-त्वमेव तद्भोगाशादिकं' शल्यमाहृत्य -स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाधुपायैर्भवति तैरेव न भवतीत्याह-'जेण सिया तेण णो सिया' येनैवार्थोंपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरिणतेन स्याद ।
एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-'इणमेव णावबुझंति' इदमेव हेतु वैचित्र्यं न बुध्यन्ते-न संजानते, के ? 'जे जणा मोहपाउडा' ये जना मौनीन्द्रोपदेश विकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः-आच्छादितास्ताविपर्यासमतयो मोहनीयोदयाद् भवन्ति । मोहनीयस्य तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति
१ भोजनादिक-पा०।
॥१५८॥