________________
प्राचा
श२।३
प्रदी०
एव दुःखी शारीर-मानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टक-शस्त्र-गण्ड-लूतादिसमुत्थं मानसं प्रियविप्रयोगाऽप्रियसम्प्रयोगेप्सिताऽलाभदारिद्रयदौर्भाग्यदौर्मनस्यभूतं तद्विरूपमपि दुःखं विधत्ते यस्यासौ दुःखी, एवम्भूतश्च सन् किमवाप्नोतीत्याह-'दुक्खागमेव आवट्ट ति दुःखानां शारीर-मानसानां आवर्त पुन:पुनर्भवनमनुवर्तते, दुःखावर्तमग्नो बंभ्रम्यते । इति:परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ८२ ॥
॥ इति श्रीलोकविजयाध्ययनस्य तृतीयोद्देशकप्रदीपिका समाप्ता ।।
ARRIASISASTISARS
॥१५४॥