________________
आचा०
प्रदी०
स्वगतदेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह
उद्देसो पासगस्स णत्थि । बाले पुण परियट्टति त्ति बेमि (सू. ८२ ) ॥
तदुक्खे दुक्खी दुक्खाणमेव आवट्टं अणु
| लोगविजयस्स ततीयो उद्देसओ समत्तो ॥
'उद्देसो पासगस्स णत्थि ' उद्दिश्यते इत्युद्देश :- सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्, अथवा पश्यतीति पश्यक : - सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो - नारका दिव्यपदेशो वास तस्य न विद्यते, तस्य द्रा (प्रा) गेव मोक्षगमनात् ।
कः पुनर्यथोपदेशकारी न भवतीत्याह 'वाले पुण'त्ति वालो नाम रागादिमोहितः, स पुनः कषायैः कर्म-परिषहोपसर्गे निहन्यत इति निह:, अथवा स्निहयत इति स्निह:- स्नेहभाववान् रागीत्यर्थः, 'कामममणुण्णे' कामाः - इच्छामदनरूपाः सम्यग् मनोज्ञा यस्य यदि वा सम्यगनु पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनोज्ञः, एवम्भूतच किम्भूतो भवतीत्याह 'असमितदुक्खे' अशमितम् - अनुपशमितं विषयाऽभिष्वङ्गकषायोत्थं दुःखं येन स तथा यत एवाऽशमितदुःखोत
१२३
॥१५३॥