________________
११२३
भाचा प्रदी०
PERSAEKAR
तथा 'अतीरंगमा' तीरं गच्छन्तीति तीरङ्गमाः न तीरङ्गमा अतीरङ्गमाः,, 'पते'त्ति एतान् प्रत्यक्षभावमापनान् कुतीथिकादीन् दर्शयति, न च ते तीरं गमनायोधता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावात् । ___ 'अपारंगमा एते' पारः-तटः परकूलं तद्गच्छन्तीति पारङ्गमा, न पारङ्गमा अपारङ्गमाः, एते-पूर्वोक्ताः पारगतोपदेशाभावादपारङ्गताः, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम् ।
अथ तीर-पारयोः को विशेषः? । उच्यते-तीरं-मोहनीयक्षयः, पारं-शेषघातिकर्मक्षयः, अथवा तीरं-घातिचतुष्टयापगमः, पारं-भवोपग्राहिकर्माभावः।
अथ कथं कुतीर्थ्यादिकः' ओघन्तरो तीरपारगामी वा न भवतीत्याह-'आयाणिज्झं' आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति ।
न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति-'वितह पप्पत्ति वितथम्-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः अकुशल: 'तम्मि ठाणम्मि'त्ति तस्मिन् साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवाऽसंयमस्थानेऽध्युपपन्नो भवति ॥२॥ ॥८१॥ कुतीर्थादिकः-वृ० ।
PRASALALASSAMACARAM
॥१५२॥