SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १।२।३ आचा प्रदी. 'से अबुज्झमाणे'त्ति स इति उच्चैर्गोत्राभिमानी अन्ध-बधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, मूढो विपर्यासमुपतीत्युत्तरेण सम्बन्धः, 'जातीमरणं'ति जातिश्च मरणश्च तद् अनुपरिवर्त्तमानः-पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः दुःखसागरावगाढो हितेऽप्यहिताध्यवसायो विपर्याशमुपैति । जीवितम्-आयुष्कानुपरमलक्षणसंयमजीवितं वा पृथगिति प्रत्येकं प्रतिप्राणि प्रियं-दयितं वल्लभम् , इहेति-अस्मिन् संसारे एकेषां-अविद्योपहतचेतसां मानवानां, तथाहि-दीर्घजीवनाथ तास्ताः रसायनादिकाः सत्त्वोपपातकारिणीः क्रियाः कुर्वते, 'खेत्तवत्यु ममायमाणाणं'ति क्षेत्रं-शालिक्षेत्रादि वास्तु-धवलगृहादिकं मम इत्येवमाचरन् सन् तत्क्षेत्रादिकं वल्लभ भवति । किञ्च-आरक्तम्-ईपद्रक्तं वस्त्रादि, विरक्तं-विविधरागं विरागं वा, मणिरिति रत्न-वैडूर्य-इन्द्रनीलादिः, कुण्डलंकर्णाभरणं, हिरण्येन सह स्त्रीः परिगृह्य', तत्रैव क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्यादौ रक्ता-गृद्धा मृदा विपर्यासमुपयान्ति, वदन्ति च-'ण एत्थ तवो वा दमो वा णियमो वा' नाऽत्र तपोऽनशनादिकं, दमो वा-इन्द्रिय-नोइन्द्रियोपशमलक्षणः, नियमो वा-अहिंसावतलक्षणः फलवान् दृश्यते, तथाहि-तपोनियमोपेतस्यापि कायक्लेशभोगादिवश्चनां विहाय नान्यत्फलं लभ्यते, जन्मान्तरे भविष्यतीति चेद् व्युद्ग्राहितस्योल्लापः, किञ्च-दृष्टहानिरदृष्टपरिकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी १ परिगृह्यते--पा० । 667-11-15-%EO बा ॥१४६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy