SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १॥२॥३ अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च, तत्रैकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिया द्रव्य-भावाभ्यामन्धाः, चतुरिन्द्रि ॥ यादयस्तु मिथ्याद्रष्टयो भावान्धाः, सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः, अनुपहतनयनास्तु सभ्यग्दृष्टयो न द्रव्यान्धाः न भावान्धाः, तदेवमन्धत्वं द्रव्य भावभेदभिन्नमेकान्तेन दुःखनननमवाप्नोति । एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृत्तश्च सदसद्विवेकविकलवादैहिकामुष्मिकेष्टफल क्रियानुष्ठानशून्यतां बिभर्ति, एवं.मूकत्वमप्ये कान्तेन दुःखरूपं परिवेदयते, उक्तश्च "दुःखकरमकीतिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ? ॥१॥" ALISESEGERLIGEREIROSLAN SCUSSIOGIRISSURSSICS तथा काणत्वमप्येवंरूपमेव, "काणो निमग्नविषमोत्कटदृष्टिरेकः', शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मन:प्रियत्व-मालेख्य कर्मलिखितोऽपि किमु स्वरूपः ? ॥१॥" एवं कुण्टत्वं-पाणिवक्रत्वादिकं, कुब्जत्वं-वामनलक्षणं, वड भत्व-विनिर्गतपृष्ठीवडभलक्षणं, श्यामत्व-कृष्णत्वं, शबलत्वं१ ०मोन्नतद्र बृ० । ॥१४४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy