________________
आचा० प्रदी०
११२।३
लाभादिकमधममवाप्य न कुप्येत्-न क्रोधं कुर्यात् , कारली वस्थानं शब्दादिकं वा दुःख मया नानुभूतमित्येवमवगम्य नोद्वेगवशेन भाव्यम् । एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावच्चाः कर्मवशगोऽनुभवति ।
तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-'भूतेहि'ति भवन्ति भविष्यन्त्यभूवन्निति भूतानि-असुभृतस्तेषु प्रत्युपेक्ष्य-पर्यालोच्य विचार्य जानीहि सात--सुख तद्विपरीतमसातमपि जानीहि, यतः सर्वोऽपि प्राणी सातमभिलपति असातश्च जुगुप्सते, एवमन्या अपि शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते ॥७८॥ एवं च व्यवस्थिते सति किं विधेयमित्याह...
समिते एयाणुपस्सी। तं जहा-अंधत्तं बहिरत्तं मूकत्तं काणत्तं कुंटतं खुज्जत्तं वडभत्तं __सामत्तं सवलत्तं । सह पमादेणं अणेगरुवाओ जोणीओ संधेति, विरूवरूवे फासे ___पडिसंवेदयति (सू० ७९)
'समिते एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतद-शुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलमस्येस्येतदनुदर्शी भूतेषु सातं जानीही ति सण्टङ्कः, तदेवं पञ्चमहाव्रतोपेतस्तवृत्तिभूतसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, तदेव दर्शयति-तद्यथा-'अंधत्तं यावत् विरूवरूवे फासे पडिसंवेदयति' संसारोदरे पर्यटन् प्राणी अन्धत्वादिका
XII॥१४३॥