SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १।२।३ आचा० पदी. तुल्यानि-'णो हीणे'त्ति यावन्त्युच्चैगोत्रेऽनुभाववन्धाऽध्यवसायस्थानानि' नीचैर्गोत्रेऽपि तावन्त्येव, तानि चाऽसुमता अनादिसंसारे भूयोभूयः स्पृष्टानि, तत उच्चैर्गोत्रकण्डकार्थतया जीवो न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । यतश्चोच्चावच्चेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बल-रूप-लाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्तव्यमित्याह-'णो पीहए' जात्यादीनां मरस्थानानामन्यतमदपि नो ईहेतापि-नाऽभिलषेदपि । यद्युच्चावच्चेषु स्थानेषु निरन्तरमुत्पन्नः प्राणी ततः किमित्याह-'इति संखाए', इति-एतत्पूर्वोक्तनीत्योच्चावच्चस्थानोत्पादादिकं परिसंख्याय-ज्ञात्वा को गोत्रबादी भवेद् ?-यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंबादी को बुद्धिमान् भवेत् ? तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणि तथोच्चैर्गोत्रनिमित्तमानवादी को भवेत् ? न कश्चित् संसारस्वभावपरिच्छेदी, किश्च-'कंसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन् वा एकस्मिन्नुच्चैर्गोत्रादिकेऽनवस्थिते स्थाने रागादिविरहादेकः कथं गृध्येत् ? विदितकर्मपरिणामः कथं गृद्धिं विदध्यात् , युज्येत गाध्यं यदि तत्स्थान प्राप्तपूर्व नाऽभविष्यत् , तचनेकशः प्राप्तम् । अतस्तल्लाभालाभयो!त्कर्षापकों विधेयावित्याह-'तम्हे'ति यतोऽनादौ संसारे पर्यटताऽसुमता यत्तान्यसकच्चावच्चानि स्थानान्यनुभूतानि तस्मात्कथश्चिदुच्चावच्छादिकं मदस्थानमवाप्य पण्डितो-हे योपादेयतत्वज्ञो न हृष्येत्-न हर्ष विदध्याद , नापि नीचस्थानावाप्तौ वैमनस्यं विदध्याद , आह च- 'नो कुज्झे अदृष्टवशात्तथाभूतलोकासम्मतं जाति-कुल-रूप-बल१.स्थान कण्डकानि-बृ० । RESORREC%9C%888- ॥१४२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy