SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ११२।३ आचा० प्रदी. ॥ श्रीलोकविजयाध्ययने तृतीयोदेशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वं कार्य', तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यादतस्तव्युदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः--'जहेत्थ कुसले नोपलिंपिज्जासि' कुशलो-निपुणः सन्नस्मिन्नुच्चैगौत्राभिधाने यथाऽऽत्मानं नोपलिम्पयेस्तथा वं विदध्याः, किं मत्त्वा ? इत्यतस्तदभिधीयते-- से असई उच्चागोए, असई णीयागोए । णो हीणे, णो अतिरिते। णो पीहए । इति संखाए के गोतावादी ? के माणावादी ? कंसि वा एगे गिज्झे ? तम्हा पंडिते णो हरिसे, णो कुज्झे । भूतेहिं जाण पडिलेह सातं (मू. ७८) स इति संसार्यात्मा, असकृद-अनेकशः उच्चैोत्रे मान-सत्काराहें उत्पन्न इति शेषः, तथाऽसकुन्नीचैर्गोत्रे सर्वलोकावगीते पौनःपुन्येनोत्पन्न, नीचैर्गोत्रोदयादनन्तकालं तिर्यवास्ते, तयोश्चोच्चाबच्चयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्ड कानि १ कार्यत्वमुक्तम् बृ०। ॥१४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy