________________
१।२।२
आचा. प्रदी०
एष इति ज्ञानादिगुणयुक्तो भावमार्गो योगत्रिक-करणत्रिकेण दण्डसमादानपरिहारलक्षणो वा आर्यैः-आराद्याताः सर्वहेयधर्मेभ्य इत्यार्या:-संसारार्णवतटवर्तिनः क्षीणघातिकाशाः संसारोदरविवरवर्तिभावविदः तीर्थकरास्तैः प्रकर्षण-सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेच्या प्रकर्षण वेदित:-कथितः, एवम्भूतं च मार्ग ज्ञात्वा किं| कर्त्तव्यमित्याह -'जहेत्थ कुसले'त्ति तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् कुशलो-निपुण अवगततत्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं नोपलिम्पये-न तत्र संश्लेषं कुर्याः, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम् , इतिशब्दः परिसमाप्ती, ब्रवीमीति पूर्ववत् ॥ ७७ ॥
SIERRESS.
॥ इति श्रोलोकविजयाध्ययनस्य द्वितीयोद्देशकप्रदीपिका समाप्ता।।
S
卐
ARKAesex
॥१४॥