________________
आचा०
प्रदी०
'इच्चेतेहिं'ति इत्येवं पूर्वोक्तैः विरूपरूपैः - नानाप्रकारैः पिण्डदानादिभिः कार्यैः दण्डसमादानमिति दण्ड्यन्ते - व्यापाप्राणिनो येन स दण्डस्तस्य सम्यगादानं - ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं सम्प्रेक्षया पर्यालोचनया एवं सम्प्रेक्ष्य भयात् क्रियते, एवं तावदिद्दभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम् आमुष्मिकार्थमपि परमार्थमानानैर्दण्डसमादानं क्रियत इति दर्शयति-पातयतीति पापं तस्मान्मोक्षः पापमोक्षः, इति - हेतौ,' यस्मात् मम भविष्यतीत्येवं मन्यमानो दण्डसमादानाय प्रवर्त्तते, तथाहि हुतभुजि पड्जीवोपघातकारिणि शस्त्रे पापविध्वंसनाय पिप्पल - शमी- समित्ति - लाज्यादिकं शठव्युद्ग्राहितमतयो जुह्वति, तथा पितृपिण्डदानादौ वस्तादिमांसोपस्कृत भोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः भवकोटिशतदुर्मोचं पापमेवोपाददते ।
'अदुवा आसंसार'त्ति, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनमाशंसा - अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि ममैतत् परुत्परारि वा परलोके वोपस्थाप्यत इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति ॥ ७६ ॥
तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह -
१ इति हेतोः पा० ।
१२/२
॥१३८॥