SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ B आचा प्रदी. ११२।२ कश्चिदभरतादिनिःशेषतो लोभाऽपगमाद्विनापि लोभं निष्क्रम्य-प्रव्रज्यां प्रतिपद्य 'विणइत्तु लोभं' इति पाठान्तरं, सज्वलनसंज्ञकमपि लोभं विनीय-निर्मूलतोऽपनीय एष एवम्भूतः सन् अकर्मा-अपगतघातिकर्मचतुष्टयाऽऽविभूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवम्भूतो लोभो येन तत्क्षये मोहनीयक्षयः, मोहनीयक्षये चावश्यम्भावी घातिकर्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकर्मापगम., अतो लोभापगमेऽकर्मा इत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्तव्यमित्याह -- 'पडिले हाए णावकंखति' प्रत्युपेक्षणया गुणदोषपर्यालोचनयोपपन्नः सन् लोभं नावकाङ्क्षति-नाभिलपतीति एपोऽनगार इत्युच्यते । ___अनगारभावविपरीतश्च अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्त अत्र-शस्त्रे पृथिवीकायाद्युपघातकारिणि पौन:पुन्येन वर्तते ।। किश्च-'से आतबले' आत्मनो बलं शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीविधत्ते, तथाहि-'मांसेन पुष्यते मांसम्' [ ] इति कृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवोक्ताः, एवं ज्ञातिबलं-स्वजनबलं मे भावीति, तथा तन्मित्रबल मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यवलं मम भविष्यतीत्यजादिकमुपहन्ति, तथा देवबलं भावीति पचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यति [इति] राजानमुपचरति, चौरभागं वा प्राप्स्यामि [इति) चोरानुपचरति, अतिथिवलं वा मे भविष्यतीत्यतिथीनुपचरति, एतदुक्तं भवति-तबलार्थमपि दण्डो न निक्षेप्तव्यः, एवं कृपण-श्रमणार्थमपि वाच्यम् । AE%%ACHCHCHE Cl॥१३७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy