SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२।२ आचा प्रदी. BES ABGABछर 'अणाणाए' ति आंज्ञाप्यते आज्ञा-हिताहितप्रातिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया स्पृष्टाः परीषहो- ॥ पसगैः एके-मोहनीयकर्मोदयात् कण्डरीकादयो न सबै संयमात् समस्तद्वन्द्वोपशमरूपात् निवर्तन्तेऽपीति सम्भाव्यते । किम्भूताः सन्तो निवर्तन्त इत्याह-मन्दा-जडा अपगतकर्तव्याकर्तव्यविवेकाः, कुत एवम्भूता ? यतो मोहेन प्रावृताः, मोहो-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-व्याप्ताः, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदये कृतलिङ्गः' पश्चा-2 द्भावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायोंकादर्थ जिघृक्षवः किल वयं संसारादुद्विग्ना आरम्भविषयाभिष्वङ्गेषु प्रवर्तन्ते इति दर्शयति-'अपरिग्गहा भविस्तामो' त्ति परिः-समन्तात्मनोवाक्कायकर्मभिहयत इति परिग्रहः, स येषां नास्तीत्यपरिग्रहा एवम्भूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा समुत्थाय-चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् अभिगाहन्ते सेवन्ते, अन्त्यव्रतोपादानात् शेपाण्यपि ग्राह्याणि, अहिंसका बयं भविध्याम एवममृषावादिन इत्याद्यप्यायोज्यम् । तदेवं प्रवज्यावेषधारिणो लब्धान् कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्तन्ते इत्याह-'अणाणाए' ति अनाज्ञया-स्वैरिण्या बुद्ध्या मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते-कामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आहच-'एत्थ मोहे' त्ति अत्र-अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौन:पुन्येन सन्ना:-विषण्णा निमग्नाः पङकावमग्ना १. ०दये अङ्गीकृतलिङ्गः बृ० । २. प्रतिपद्यन्ते पा० । PESAR RECE ॥१३४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy