________________
१।२।१
आचा. प्रदी०
साकलम १११
'अणभिकंतं च' ति चशब्दः आधिक्ये, खलुशब्दः पुनःशब्दार्थे, पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं बजतीति प्रतिपादितम् , अनभिकान्तं च पुनर्वयः सम्प्रेक्ष्य 'आयटुं समणुवासेज्जासि' इत्युत्तरेण सम्बन्धः, आत्मार्थम् आत्महितं समनुवासयेत्-कुर्यात् ॥ ७॥ किमनभिक्रान्तवयसैवात्महितमनुष्ठेयमुताऽन्येनापि इति ? अपरेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद् दर्शयति
खणं जाणाहि पंडिते ! (सू. ७१) क्षण:-अवसरो धर्मानुष्ठानस्य, स चाऽऽर्यक्षेत्र-सुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाणामभावे सति, तं क्षणं जानीहि-अवगच्छ, पण्डित !-आत्मज्ञ ! । अथवाऽवसीदन् शिष्यःप्रोत्साह्यते-हे अनभिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट ! द्रव्य-क्षेत्र-काल-भावभेदभिन्न क्षणम्-अवसरमेवम्भूतं जानीहि-अवबुध्यस्त्र, क्षणश्चतुर्धा-तद्यथा-द्रव्यक्षणो जङ्गमत्र-पश्चेन्द्रियत्व-विशिष्ट जातिकुलादिविशिष्टं मनुष्यजन्म १। क्षेत्रक्षणः-आर्यक्षेत्रम् २ । कालक्षणः-धर्मचरणकालः ३। भावक्षण:-क्षयोपशमादिरूपः ४ । इत्येवम्भूतमवसरमवाप्याऽऽस्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः ।। ७१ ॥
१ अनतिक्रान्त०-पा० । २ अनतिक्रान्त०-पा० ।
HERSHISHASHRSHISHASASHANGA
॥१२९।