________________
भाचा०
प्रदी०
किश्व
जाव सोतपरिणाणा अपरिहीणा जाव णेत्तपरिणाणा अपरिहीणा जाव घाणपरिणाणा अपरिहीणा जाव जीहपरिण्णाणा अपरिहीणा जाव फासपरिण्णाणा अपरिहीणा, इच्चेतेर्हि विरूवरूवेहिं परिण्णाणेहिं अपरिहीणेहिं आयहं समणुवासेज्जासि त्ति बेमि ॥ ( सू. ७२ )
| लोगविजयस्स पढमो उद्देसओ समत्तो ॥
'जाव सोत्तपरिण्णाणा' इति यावदस्य विनश्वरस्य काय गृहस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्र-घ्राण-रसन-स्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते इत्येतैः विरूपरूपैः - इष्टानिष्टरूपतया नानारूपैः परिज्ञानैः प्रकृष्टज्ञानैरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह- 'आयट्ठे समणुवा सेज्ज' ति आत्मनो ऽर्थ आत्मार्थः, स च ज्ञान-दर्शन- चारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं - प्रयोजनमात्मार्थं तच्च चारित्रानुष्ठानमेव, समनुवासयेः-सं-सम्यग् यथोक्तानुष्ठानेन, अनुपश्चादनभिक्रान्तं वयः सम्प्रेक्ष्य क्षणम् - अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं समनुवासयेः - आत्मनि विदध्याः । तेन' वा आत्मार्थेन ज्ञान-दर्शन- चारित्रान्म
१ अथवा 'अर्थशाद् विभक्तिपुरुषपरिणाम' इति कृत्वा तेन वृ० ।
१।२।१
॥१३०॥