________________
आचा०
प्रदी०
तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत् प्रतिपादितं, अर्थोऽपि महता क्लेशेनोपातो रक्षितश्च न त्राणाय भवतीति प्रतिपिपादयिषुराह
-
उवादीतसेसेण वा संणिसिण्णिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए । ततो से एगया रोग समुपाया समुप्पज्जंति । जेर्हि वा सद्धि संवसति ते वा णं एगदा णियगा पुर्वि परिहरति, सो वा ते यिए पच्छा परिहरेज्जा । णालं ते तव ताणा वा सरणाएवा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ( सू. ६८ )
'उत्रादीतसेस' त्ति उपादितं - उपभुक्तं तस्य शेषमुपभुक्तशेषं तेन वा, वाशब्दादनुपभुकशेषेण वा, सन्निधानं - सन्निधिस्तस्य संनिचयः संनिधिसंनिचयः, अथवा सम्यग् निधीयते स्थाप्यते उपभोगाय योऽर्थः स सन्निधिस्तत्संनिचयः - प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स इहास्मिन् संसारे एकेषां असंयतानां संयताभासानां वा केषाञ्चिद् भोजनाय - उपभोगार्थं क्रियतेविधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह-'ततो से' त्ति, ततो द्रव्यसंनिधिसन्निच यादुत्तरकालमुपभोगावसरे 'से' तस्य बुभुक्षोः एकदेति द्रव्य-क्षेत्र - काल - भावनिमित्ताविर्भावित वेदनीयकर्मोदये रोगसमुत्पादाः-ज्वरादिप्रादुर्भावाः समुत्पद्यन्ते ।
ग
१।१।६
॥१२७॥