________________
15
१।२।१
आचा. प्रदी०
आह च-'से हंता' इत्यादि, स इति अप्रशस्तगुणमूलस्थानवान्विषयाभिलापी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवति, तथा छेत्ता कर्ण-नासिकादीनां, भेत्ता नयन -शिरो-दशनादीनां, लुम्पयिता ग्रन्थिच्छेदनादिभिः, विलुम्पयिता ग्रामघातादिभिः, अपद्रावयिता-प्राणव्यपरोपको वा विषशस्त्रादिभिरवद्रापयिता[वा, उत्त्रासको-लोष्टप्रक्षेपादिभिः। स किमर्थ हननादिकाः क्रियाः करोतीत्याह – 'अकडं करिस्सामि'त्ति अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोर्थोपार्जनाय हननादिषु' प्रवर्तते ।
स एवं क्रूरकर्मातिशयकारी समुद्रखनादिकाः क्रियाः कुर्वनप्यलाभोदयादपगतसर्वस्वः किम्भूतो भवतीत्याह-'जेहिं वा सद्धिति वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः, यैः-माता-पितृ-स्वजनादिभिः साधं संवसत्यसो त एव, 'ण'-वाक्यालङ्कारे, एकदेत्यर्थनाशाद्यापदि शैशवे वा निजा:-आत्मीया बान्धवाः सुहृदो वा 'पुब्धि' पूर्वमेव तं-सर्वोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनोरथलाभः संस्तानिजान् पश्चात्योषयत्-अर्थदानादिना सन्मानयेत, ते च पोषकाः पोष्या वा तवापदगतस्य न त्राणाय भवन्तीत्याह-'णाल ते' इत्यादि ते-निजा मातापित्रादयः, तवेति उपदेशविषयापन उच्यते, त्राणाय-आपद्रक्षणार्थ शरणाय -निर्भयस्थित्यर्थ नालं-न समास्त्वमपि तेषां त्राणशरणे कर्तुं नालमिति ॥६॥
१ देषु क्रियासु-प्र० मु० ।
-
॥१२६॥
SA