SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. कार १।२।१ विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते ॥६५॥ गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते इत्येवमित्यादि, अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वाऽतः | किं विदध्यात् ? [ इत्याह-] इच्चेवं समुट्टिते अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमादए। वओ अच्चेति जोव्वणं च (सू. ६६) ___ 'इच्चे 'ति इतिरुपप्रदर्शने, अप्रशसमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकञ्च शुभाशुभकर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं-विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्युत्तरेण सम्बन्धः। किश्च-'अंतरं-च'त्ति अन्तरमपसरः, तच्चार्यक्षेत्र सुकुलोत्पत्ति-बोधिलाभ-सर्वविरत्यादिकं, चा-समुच्चये, खलुरवधारणे, इममित्यने नेदमाह-विने यस्तपःसंयमादाववसीदन् प्रत्यक्षभावापनमार्यक्षेत्रादिकमवसरमुपदर्याभिधीयतेतवाऽयमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीय दुर्लभ एव, इत्यतसमवसरं संप्रक्ष्य-पर्यालोच्य धीरः सन् मुहूर्तमप्येकं नो प्रमादयेत्-न प्रमादवशगो भूयादिति । ॥१२४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy