________________
आचा० प्रदी०
'सो वा' इति वा शब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं .परिवदन्ति, स वा जराजर्जरितदेहस्तानिजाननेकदोषोद्घनतया परिवदेव - निन्देत , येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तदुःखापनयनसमर्था न भवन्ति, आह च-'णालं ते तव ताणाए'त्ति नालं-न समर्थास्ते पुत्र कलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, प्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोभिरुह यमानः सुकर्णधाराधिष्ठितं प्लबमासाद्यापत्तरतीति', शरणं पुनर्यदवष्टम्भानिर्भयः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति--जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, उक्तश्च
"जन्म-जरा-मरण भयैराभद्रते व्याधिवेदनाग्रस्ते।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥" [प्रशमरति-१५२] स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-स-जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, न च कोडायै-न च लड्न-बलान-आस्फोटनक्रीडानां योग्योऽसौ भवति, नाऽपि रत्यै, रतिरिह विषयगता गृहयते, सा पुनर्ललनाऽवगृहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते भवान् न पश्य: त्यात्मानं नावलोकयति शिरःपलितं मां दुहितृभूतामवगृहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो
१. ०पस्तर०-६० ।
ॐ51556SEA
६ ॥१२३॥