SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० १।२।१ कृतोपकाराः' सन्तः कुलपुत्रतामधलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिसमकल्पं वृद्धं प्रत्यजागरन्', ता अपि उद्वर्तन-स्नान-भोजनादिना यथाकालमक्षुण्णं विहितात्यः। ततो गच्छत्सु दिवसेसु प्रबर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृसु जरवृद्धे च सर्वाङ्गकम्पिनि गलदशेपश्रोतसि सति शनैः शनैरुचितमुपचारशिथिलतां निन्युः। वृद्धोऽपि मन्दप्रतिजागरणतया चित्ताभिमानेन च दुःख पागरावगाढः सन् पुत्रेभ्यः स्नुषार्णान्याचचक्षे, ताश्च भर्तृभिः खिद्यमाना सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्य कवाक्यतया स्वभर्तृनभिहितवत्यः-क्रियमाणेऽप्ययं प्रति जागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहनुते, यदि भवतामप्यस्माकमुपयविसम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा एव सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति नैता मम सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकंवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते ततस्तैरप्यवधी रितोऽन्येषामपि कथाऽवसरे तद्भण्डनस्वभावतामचचक्षिरे । ततोऽसौ पुत्रैरवधी रितः स्नुपाभिः परिभूतः परिजनेनावगीतो वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः कष्टतरमायुःशेपावस्थामनुभवति । 1- STARSINISRAERASAN एवमन्योऽपि जराभिभूतविग्रहस्तृणकुजीकरणेऽप्यसमर्थः सन् कार्यकनिष्ठलोकात परिभवमाप्नोति, तदेवं जराभिभूतं 'णियगा पुब्बिं परिवदंति' निजाः परिवदन्ति, असावपि परिभूयमानस्तव्यतिरिक्तचेतास्तदपवादान् जनायाचष्टे । १ स्मृतोपकाराः । २ असमर्थम् । ३ ०त्यजजागरन्-ब० । ४ चेखिद्यमानाः--- । ५ प्रत्ययक०-पा० । ६ यथाऽवसरे पा० । ॥१२२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy