SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आचा० पदी० 'सोतपरिण्णाणेहिं 'ति शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं तच्च कदम्बपुष्पाकारं द्रव्यतो, [भावतो ] भाषाद्रव्यग्रहण लब्ध्युपयोग स्वभावम् तेन श्रोत्रेण परि:- समन्तात् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानैर्जराप्रभावात्परिहायमानैः सद्भिस्ततोऽसौ प्राणी एकदा वृद्धावस्थायां रोगोदयावसरे वा मूढभावं - मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रियपाटवाभावादात्मने जनयति, हिताऽहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः । " एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह - 'अभिकंतं चे 'ति, तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः, तज्जरामभि मृत्युं वा क्रान्तं, तत्राद्यवयोद्वयातिक्रमे जराभिमुखमतिक्रान्तं च' वयो भवति, चः समुच्चये, न केवलं श्रोत्रचक्षु-ण-रसन - स्पर्शन विज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैमयमापद्यते, वयश्चातिक्रान्तं प्रेक्ष्य - पर्यालोच्य स इति प्राणी खलुरिति विशेषणे विशेषेण - अत्यर्थं मौद्यमापद्यते, 'तओ से एगया मूढभावं जणयंति' ततस्तस्मादिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स इति प्राणी एकदा - वृद्धावस्थायां मूढत्वं किंकर्तव्यताभावमात्मनो जनयति, श्रोत्रादिविज्ञानानि वा परिहीयमाणानि मूढभावं जनयन्ति ॥ ६४ ॥ स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह १०खमभिक्रा० वृ० । ११२।१ 1122011
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy