________________
आचा०
प्रदी०
पृथिवीकायादिजन्तूनां यच्छस्त्रमुपघातकारि तत्र पुनः पुनः प्रवर्तते ।
एतच्च साम्प्रतेक्षणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कत्वं' वा स्यात्, तच्चोभयमपि नास्तीत्याह -- 'अप्पं चत्ति अल्प- स्तोकञ्च शब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्मपुद्गलाः, इहेति संसारे मनुष्यभवे वा एकेषां केषाञ्चिदेव मानवानां मनुजानां चशब्दादुत्तरोत्तरसमयादिवृध्द्धया पल्योपमत्रयाऽवसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात् संयमायुष्कं तत्राल्पमेवेति, तथाहि - अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत् संयमायुष्कं तच्चाल्पमेवेति ॥ ६३ ॥
ast दीर्घाssssस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतराम'वस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
तं जहा -सोतपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणे हि घाणपरिणाणेहि परिहायमाणेहि रसपरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहि अभिकतं च खलु वयं सपेहाए ततो से एगया मूढभावं जणयंति (सू. ६४)
१ दीर्घायुष्कं वा घृ० । २ ० तमाम० वृ० ।
१।२।१
॥ ११९॥