SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ट १।२।१ आचा० प्रदी० किश्च 'अट्टालोभी' अर्थों-रत्नकुप्यादिस्तत्र आसमंताल्लोभोऽर्थालौभा, स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत् । तथाहि--असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशमाण्डगृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणधारावर्षनिरुद्धसकलपाणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघक्षुरुपभोगधर्मावसरे निवृत्ताऽपराऽशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति । पुनरपि लोभिनोऽशुभव्यापारानाह-'आलुपे' आ-समन्ताल्लुम्पतीत्यालुम्पः, स हि लोभाभिभूताऽन्तःकरणोऽपगतसकलकर्तव्याऽकर्तव्यविवेकोऽर्थलाभैकदत्तदृष्टिः, ऐहिकाऽऽमुष्मिकविपाककारिणीनिर्लान्छनगलकर्तनचौर्यादिकाः क्रिया: करोति। अन्यच्च 'सहसक्कारे' करणं-कारः, असमीक्षितपूर्वाऽपरदोषं सहसाकरणं सहसाकारः, तथाहि-लोभतिमिराच्छादितदृष्टिरथैकमनाः शकुन्तवच्छराघातमनालोच्य मांसाभिलाषितया गात्र-सन्धिच्छेदनादितो विनश्यति । ___लोभाभिभूतोऽर्थमेव पश्यति नाऽपायान् , आह च- 'विणिविट्ठचित्ते' विविधम्-अनेकधा निविष्ट-स्थितमवगाढमर्थोंपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तमन्तःकरणं यस्याऽसौ विनिविष्टचित्तः। एवंविधश्च किम्भवतीत्याह-'एत्थ सत्थे'त्ति अत्र-अस्मिन् मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् १०णजलधारा-वृ०। CELEAA-% AA ASIASISARERARIERAL ॥११८ १८॥ थल
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy