SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२२१ आचा प्रदी. RECII-ASESSIST-II "काया वचइ सत्थो ? किं भंड ? कत्थ कित्तिया भूमी? को कयविक्कयकालो ? निविसह किं कहिं केण ? ॥१॥ [ स च परितप्यमानः किम्भूतो भवतीत्याह --'कालाकालसमुट्ठाई'त्ति काल:-कर्त्तव्यावसरस्तद्विपर्यासोऽकालः, सम्यगुस्थातुमभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु-काले कर्तव्यावसरेऽकाले तद्विपर्यासे समुत्तिष्ठते, कर्तव्यावसरे न करोत्यन्यदा च विदधाति, यथा काले करोत्येवमकालेऽपि, यथा वाऽनवसरे न करोत्येवमवसरेऽपि, अन्यमन| स्कत्वादपगतकालाकालविवेकः, यथा-चण्डप्रद्योतेन मृगावती' अपगतभर्तृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षिता, यः पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोति, तदुक्तम् "मासैरष्टभिरहना च, पूर्वेण वयसाऽऽयुषा।। तस्कर्तव्यं मनुष्येण येनान्ते सुखमेधते ॥१॥" धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थ पुनः कालाकालसमुत्थायी भवतीत्याह-'संजोगट्ठी' संयुज्यते संयोजनं वा संयोगोऽर्थः-प्रयोजनं सोऽस्यास्तीति संयोगार्थी, तत्र धन-धान्य-हिरण्य-द्विपद-चतुष्पद-राज्य-भार्यादिः संयोगस्तेनार्थी तत्प्रयोजनी कालाकालसमुत्थायी भवतीति । १कदा ब्रजति सार्थः ? किं भाण्ड ? कुत्र कियती भूमिः ! कः क्रय विक्रयकालो? निर्विषयति (निविंशति) किं क्व केन? ॥ २ मृगापतिः-वृ०। ॥११७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy