SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ A ११२११ आचा प्रदी० ABPERHI तथा पुत्रा मे न जीवन्तीत्यारम्भे प्रवर्तते । एवं दुहिता मे दु:खिनीति राग-द्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येनैहिकाऽमुष्मिकानपायानवाप्नोति, यथाजरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपमृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् । स्नुषा मे न जीवन्तीत्यारम्भे प्रवर्तते । सखि-स्वजन-संग्रन्थ-संस्तुता मे, सखा-मित्रं, स्वजन:-पितृव्यादिः, संग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्रशालकादिः, संस्तुतो-भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः, पश्चात् संस्तुतः शालकादिः, स इह ग्राह्यः, स च मे दुःखित इति परितप्यते । ___'विवित्तीवकरण'त्ति विविक्तं-शोभनं प्रचुरं वा उपकरण-हस्त्यश्वरथासनमश्चकादि परिवर्तन-द्विगुण-त्रिगुणादिभेदभिन्नं तदेव, भोजन-मोदकादि, आच्छादनं-पट्टयुग्मादि, तच्च मे भविष्यति नष्टं वा । 'इच्चत्थं गढिए'त्ति इत्येवमर्थ गृद्धो लोकस्तेष्वेव माता-पित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमतिः वसेत्-तिष्ठेत् । तदेवं कषायेन्द्रियप्रमत्तो माता-पित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो य राओ य परितप्पमाणे' अहश्च-दिवस, रात्रिञ्च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसाय: परि-समन्तात्तप्यमानः सन् तिष्ठति, [तद्यथा-] %AE-ICIA -RS- किस ॥११६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy