________________
आचा प्रदी०
११२१
ततः किमित्याह-'इति से गुणट्ठी'ति इतिहेतौ, यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी गुणार्थी-गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिविनाशे वा काङ्क्षा-शोकाभ्यां स प्राणी महता परितापेन शारीर-मानसस्वभावेन दुःखेनाभिभूतः सन् प्रमत्तः।
प्रमादश्च राग-द्वेषात्मको, द्वेषश्च प्रायो न राग विना, रागोऽपि उत्पत्तेरारभ्याऽनादिभवाऽभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति-'माया मे' तत्र मातृविषयो रागः संसारस्वभावादुपकारकतत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषि-वाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि पुरुषादौ तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रोमस्येति ।
एवं पिता मे, पितृनिमित्तं राग-द्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा व्यापादिता इति । भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी।
तथा भार्यानिमितं रागद्वेषोद्भवः, यथा-चाणिक्येन' भगिनीपत्याद्यवज्ञातया भार्यया प्रेरितेन नन्दान्तिकं द्रव्यार्थमुपगतेन कोपानन्दकुलक्षयं निन्ये ।
१ चाणाक्येन-वृ०।
॥११५॥
A