________________
आचा०
प्रदी ०
॥ अथ द्वितीयं लोकविजयाख्यमध्ययनम् ॥
उक्तं प्रथमाऽध्ययनं साम्प्रतं द्वितीयमारभ्यते, अस्य चाऽयमभिसम्बन्धः - अधिगतशस्त्रपरिज्ञास्त्रार्थस्य तत्प्रतिपादिकेन्द्रियादिश्रद्धधानस्य सम्यक् तद्रचापरिणामवतः तद्योग्यतयाऽऽरोपितमहाव्रतभारस्य साघोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाऽध्ययनेन प्रतिपाद्यते, अस्योदेशाऽर्थाधिकारी यथा—
तत्र प्रथमोद्देश - स्वजने - मातापित्रादिकेऽभिष्वङ्गो न कार्य इत्यर्थाधिकारः १ । द्वितीयोदेशके--अदृढत्वं संयमे न कार्यमिति २ ।
तृतीये -- जात्याद्युपेतेनाभिमानो न कार्य इति ३ । चतुर्थे - भोगेष्वभिष्वङ्गो न कार्य इति ४
पञ्चमे तु त्यक्तस्वजनादिनाऽपि साधुना संयमदेहप्रतिपालनाय लोकनिश्रया विहर्तव्यमिति । षष्ठोद्देशके तु- लोकनिश्रया विहरताऽपि साधुना लोके ममत्वं न कार्यम् ६ । इत्युद्देशार्याधिकारः । नामनिष्पन्ने निक्षेपे लोकविजय इत्यध्ययननाम, सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्जे गुणे से मूलट्ठाणे, जे मूलट्ठाणे से गुणे ।
१।२।१
॥११३॥