________________
आचा०
प्रदी ०
,
एतदेवाह - 'तं परिण्णाय'त्ति तत्पापमष्टादशधा परि:- सर्वतो ज्ञात्वा मेधावी मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्र परका यशस्त्रादिभेदं समारभते, नैवाऽन्यैः समारम्भयेत्, न चाऽन्यान् समारभमाणान् समनुजानीयात् एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भाः परिज्ञाताः ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च स एव मुनिः प्रत्याख्यात कर्मत्वात्, इति शब्दोऽध्ययनसमाप्त्यर्थः, ब्रवीमीति सुधर्मस्वाम्याह स्वमनी पिकाव्यावृत्तये, श्रीवर्धमानस्वामिन उपदेशात् सर्वमाख्यातं मयेति ।
इदं चाऽध्ययनं साधुना यदाऽधीतं भवति, अर्थतश्च शिष्यकेण धृतं भवति तदाऽस्योपस्थापना - विधिना महाव्रताssरोपणं कार्यमिति ॥ ६२॥
॥ श्रीशस्त्रपरिज्ञाध्ययने सप्तमोदेशक प्रदीपिका समाप्ता ॥
॥ इति श्रीबृहद्खरतरगच्छराजाधिराजश्रीजिन समुद्रसूरिपहालङ्कारश्रीजिनहंस सूरिविरचितायामाचाराङ्गप्रदीपिकायां वृत्तौ श्रीशस्त्रपरिज्ञाऽध्ययनं समाप्तम् ॥
.............................og
॥ इति श्रीआचाराङ्गे शस्त्रपरिज्ञाध्ययनम् ॥
oooooooooooooooooooooooooooooooooooo.....8
१ भवति सूत्रतः वृ० । २ शिक्षकेणा वृ०
१1१1७
॥ ११२ ॥