________________
भाचा
१।१७
प्रदी.
जस्सेते छज्जीवणिकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू० ६२)॥
॥ सत्थपरिणाए सत्तमो उद्देसो समत्तो ॥ ____'से वसुमति स षड्जीवनिकायहनननिवृत्तो वसुमान-द्रव्यवान् , वसूनि द्रव्य-भावभेदात् द्विधा, द्रव्यवसूनि-मरकतेन्द्रनीलादीनि, भाववसूनि-सम्यक्त्वादीनि, इह च भाववसुभिर्वसुमत्वमङ्गीक्रियते, 'सव्वसमण्णागतपण्णाणेणं'ति प्रज्ञानानियथाऽवस्थितविषयग्राहीणि ज्ञानानि, सर्वाणि समन्वागतानि प्रज्ञानान्यस्याऽऽत्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषा| नुगतः, एवंविधेनात्मना अकरणीयं-अकर्तव्यमिह-परलोकविरुद्धत्वादकार्यमिति मत्वा नाऽन्वेषयेत्-न तदुपादानाय यत्नं || कुर्यात् ।
किं पुनस्तदकरणीयं-अकर्तयमिह-परलोकाऽविरुद्धत्वेनाऽन्वेषितव्यमिति ?
उच्यते-पापं कर्म-अधःपतनकारित्वात् पापं क्रियते इति कर्म, तच्चाऽष्टादश भेद-प्राणाऽतिपात १ मृषावाद २ अदत्तादान ३ मैथुन ४ परिग्रह ५ क्रोध ६ मान ७ माया ८ लोभ ९ राग १० द्वेष ११ कलह १२ अभ्याख्यान १३ पैशून्य १४ परपरिवाद १५ रत्यरति १६ मायामुपा १७ मिथ्यादर्शनशल्याख्यं १८ इत्येवमेतत्पापमष्टादशविधं नाऽन्वेषयेत न कुर्यात् स्वयं; न चान्यं कारयेत् , न कुर्वाणमन्यमनुमोदेत ।
॥११॥
।