________________
आचा०
प्रदी०
इत्येवं भाषन्ते न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदुपगमे वा तदाश्रिताऽऽरम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीलाः ।
किं पुनः कारणं ? ये नैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह- 'छंदोवणीया अज्झोववण्णा' छन्दः - स्वाभिप्रायः, इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा तेन छन्दसा उपनीताः - प्रापिता आरम्भमार्गमविनिता अपि विनयं भाषन्ते ।
अधिकमत्यर्थमुपपन्नाः तच्चित्ताः विषयपरिभोगायत्तजीवितास्ते किं कुर्युरित्याह- 'आरंभसत्ता पकरेंति संगं' आरम्भ:सावधानुष्ठानं तस्मिन् सक्ताः- तत्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्गः - अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारेऽपायानाप्नोति षड्जीवनिकायघातकारीति ॥ ६१ ॥
अथ यो निवृत्तस्तदारम्भात् स किं विशिष्टो भवतीत्याह
सेमं सव्वमणागत पण्णाणेणं अप्पाणेणं अकरणिज्जं पावं कम्मं णो अण्णेर्सि । तं परिणाय मेहावी व सयं छज्जीवणिकायसत्थं समारभेज्जा, वऽण्णेहि छज्जीवणिकायसत्थं समाग्भावेज्जा, णेवऽण्णे छज्जीवणिकायसत्थं समारभंते समणुजाज्जा |
११/७
॥ ११० ॥