________________
आचा० प्रदी.
ESCOLECTOCICHOCHES
एत्थंपि जाण उवादीयमाणा, जे आयारे ण मंति, , आरंभमाणा विणयं वयंति छंदोवणीया अज्झोववण्णा,
आरंभसत्ता पकरेंति संगं (सू. ६१) 'एत्थंपि' एतस्मिन्नपि प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्तेकर्मणा बध्यन्ते, एकस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायधननितेन' कर्मणा बध्यन्ते, किमिति ? यतो न ह्येकजीवनिकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यते, अतस्त्वमेव जानीहि, अनेन श्रोतुः परामर्शः, पृथिव्याघारम्भिणः शेषकायारम्भकर्मणोपादीयमानान् जानीहि । के पुनः कर्मणोपादीयन्ते इत्याह-'जे आयारेत्ति' येऽविदित| परमार्थाः पञ्चविधे आचारे न रमन्ते-न धृतिं कुर्वन्ति, तदधृत्या पृथिव्याद्यारम्भिणः तान् कर्मभिरुपादीयमानान् जानीहि ।
के पुनराचारे न रमन्ते ? शाक्य-दिगम्बर-पार्श्वस्थादयः, किमिति ? यत आह-"आरम्भमाण'त्ति आरम्भामाणा अपि पृथिव्यादीन् जीवान् विनयं-संयममेव भाषन्ते, कमोष्टकविनयनाद्विनयः-संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता
१ शेषनिकायवधप्रवृत्ताः शेषनिकायवध ज०-पा०।
आ०१०
॥१०९॥