________________
| श१७
आचा० प्रदी०
विधं विज्ञानं नास्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा ? यश्च बहिर्जानाति सोऽध्यात्म वेत्ति । परात्मपरिज्ञानात् यद्विधेयं तदाह-एतं तुल'त्ति एनां तुलामन्वेषयेत् , का पुनरसौ तुला ? यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपि रक्ष ॥५७॥ अतश्च यथाऽभिहिततुलातुलितस्त्रपरान्तराः' स्थावर-जङ्गमजन्तुरक्षणाय प्रवर्त्तन्ते, कथमिति दर्शयति -
इह संतिगता दविया णावखंति जीविउं (सु. ५८) 'इह संति'त्ति इह-एतस्मिन् दयेकरसे जिनप्रवचने शमन-शान्तिरूपशमः प्रशम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्याऽ भिव्यक्तिलक्षणसम्यग्दर्शन-ज्ञान-चरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् , एवंविधा शान्तिं गता:-प्राप्ताः शान्तिगताः, द्रविकाः-रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः, कर्मकाठिन्यद्रवणकारित्वात् स विद्यते येषां ते द्रविकाः, नाऽवकाक्षन्ति-न वाञ्छन्ति, किं नाऽवकाङ्क्षन्ति ? जीवितुं-प्राणान् धारयितुं, केनोपायेन ? जीवितुं नाऽवकाक्षन्ति ? वायुजीवोपमर्दनेन, शेपजीवनिकायरक्षणं तु प्रागुक्तमेव, समुदायाऽर्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तव्यवस्थिता एवोन्मलिताऽतितुङ्गराग-द्वेषद्रुमाः परभूतोपमर्दनिष्पन्नसुखजोविकानिरभिलाषाः साधवो, नाऽन्यत्र, एवंविधक्रियाऽवबोधाsभावात् ॥५८॥
१ रा नराः- वृ०।
॥१०६॥