________________
आचा०
प्रदी०
आतंकदंसी अहियं ति णच्चा ।
जे अज्झत्थं जाणति से बहिया जाणति, जे बहिया जाणति से अज्झत्थं जाणति । एतं तुलमणेर्सि (सू. ५७)
'आतंके' त्ति आतङ्को-दुःखं, तच्च द्विविधं - शारीरं मानसञ्च तत्राऽऽद्यं - कण्टक' - क्षार - शस्त्र - गण्ड - लूतादिसमुत्थं, मानसं प्रियविप्रयोगाऽप्रियसम्प्रयोगवाच्छिताऽलाभदारिद्रयदौर्मनस्यादिकृतं एतदुभयमातङ्कः, आतङ्कं पश्यतीत्यातकदर्शी, अवश्यमेतदुभयमपि दुःखं मयि अनिवृत्तवायुकायसमारम्भे समापतति, ततश्च तद्वायुकायसमारम्भणमातङ्कहेतुभूतमभिहितमिति ज्ञात्वा एतस्मान्निवर्त्तने प्रभुर्भवतीति । अहितमेतद्वायुकायसमारम्भणमिति ज्ञात्वा परिहरति ।
वायुकायसमारम्भनिवृत्तेः कारणमाह – 'जे अज्झत्थं 'ति आत्मानमधिकृत्य यद्वर्तते तदध्यात्मं तच्च सुखदुःखादि, तो जानाति -स्वरूपतोऽवगच्छति स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथा- एषोऽपि हि सुखाभिलाषी दुःखाचोद्विजते, यथा मयि दुःखमापतितमतिकटुकम सद्वेद्य कर्मोदयादशुभफलं स्वानुभवसिद्धमेवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं योऽवगच्छति स खल्वध्यात्मं जानाति, एवञ्च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्व-परसमुत्थं वा शरीर-मनः समाश्रयं दुःखं सुखं वा वेत्ति, यस्य पुनः स्वात्मन्येवं
१ कडक पा० ।
१1१1७
॥ १०५ ॥