________________
श१७
आचा० प्रदी.
२०७२
Celest-TESTRACTORS
लक्षणद्वारे-- जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंते विरूवंमि ॥१॥
[आ० नि० गाथा १६७] यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्च, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नो पलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं च, तद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्च, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं च, एतदुपमान' वायौ भवति, आदेशो-व्यपदेशोऽसत्यपि रूप इति, अत्राऽसच्छन्दो नाऽभाववचन:, कित्वसद्रूपं वायोरिति चक्षुग्रोद्यं तद्रूपं न भवति, सूक्ष्मपरिणामात् , परमाणोरिव रूप-रस-गन्ध-स्पर्शात्मकश्च वायुरिष्यते २।।
परिमाणद्वारे-ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतराऽसंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेपास्त्रयोऽपि राशयः पृथगसङ्ख्यलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चात्र-चादराऽप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्ख्येयगुणाः, बादराऽप्कायाऽपर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्येयगुणाः, सूक्ष्माऽकायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माऽप्यकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ३।
१०पमानो-वृक्ष
॥१०॥