________________
आचा०
प्रदी०
॥ शस्त्रपरिज्ञाध्ययने सप्तमोद्देशकः ॥
उक्तः षष्ठोदेशकः, साम्प्रतं सप्तमः समारभ्यतेऽस्य चाऽयमभिसम्बन्धः - अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते - यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय द्वाराण्याह-वातीति वायुस्तस्य वायोर्द्वाराणि पृथिवीकायवनवरं विधान १ परिमाण २ उपभोग ३ शस्त्र ४ लक्षण ५ द्वारेषु नानात्वं द्रष्टव्यम् ।
तत्र विधानद्वारे - वायुरेव जीवा वायुजीवाः, ते च द्विविधाः सूक्ष्मा बादराव, सूक्ष्मा:- सकललोकव्यापकाः, बादरास्तु पञ्चविधा:- उत्कलिकावातः १ मण्डलिकावातः २ गुजावातः ३ घनवातः ४ शुद्धवातश्च ५ ।
तत्र स्थित्वा स्थित्वोत्कलिकाभिर्यो वाति स उत्कलिकावातः १ ।
मण्डलिकावातो वातोलीरूपः २ ।
गुञ्जा- भम्भा तद्वत् गुञ्जन् यो वाति स गुञ्जावातः ३ ।
घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितः हिमपटलकल्पः ४ । मन्दस्तिमितः शीतकालादिषु यो वाति स शुद्धवातः ५ ।१।
१।१।७
॥१०२॥